#Krishna #IsvaraParamaKrsna #Janmashatami
Govindam adi-purusham tam aham bhajami
गोविन्दम् आदि पुरुषं तम् अहं भजामि
govindam adi-purusham tam aham bhajami
Spoken By: Lord Brahma to Lord Govinda
Book Name: Brahma Samhita (Section:
Chapter 5 Verses 1, 29 – 56)
Author: Vyasadeva
ईश्वरः परमः कृष्णः सच्चिदानंद विग्रहः
अनादिरादिर्गॊविंदः सर्व कारण कारणं
चिंतामणि-प्रकर-सद्मिसु कल्पवृक्ष-
लक्षावृतेषु सुरभिरभिपालयंतं
लक्श्मी-सहस्र-शत-संभ्रम-सेव्यमानं
गोविंदं आदिपुरुषं तमहं भजामि
वेणुं क्वणंतं अरविंद-दलायताक्षं
बर्हावतंसं असितांबुद सुंदरांगं
कंदर्प-कोटि-कमनीय-विशेष-शोभं
गोविंदं आदिपुरुषं तमहं भजामि
आलोल-चंद्रक-लसद्-वनमाल्य-वंशी
रत्नांगदं प्रणय -केलि-कला-विलासं
श्यामं त्रिभंग-ललितं नियत-प्रकाशं
गोविंदं आदिपुरुषं तमहं भजामि
अंगानि यस्य सकलेंद्रिय- वृत्ति-मंति
पश्यंति पांति कलयंति चिरं जगंति
आनंद चिन्मय सदुज्ज्वल विग्रहस्य
गोविंदं आदिपुरुषं तमहं भजामि
अद्वैतं अच्युतं अनादिं अनंत-रूपं
आद्यं पुराणपुरुषं नव-यौवनंच
वेदेषु दुर्लभं अदुर्लभं आत्म-भक्तौ
गोविंदं आदिपुरुषं तमहं भजामि
पंथास्तु कोटि-शत-वत्सर-संप्रगम्यो
वायोरथापि मनसो मुनि पुंगवानां
सो प्यस्ति यत्-प्रपद-सीम्नि अविचिंत्य-तत्त्वे
गोविंदं आदिपुरुषं तमहं भजामि
एकोsप्यसौ रचयितुं जगद्-अंड-कोटिं
यच्छक्विरस्ति जगदंडचया यदंतः
अंडांतरस्थ परमाणु चयांतरस्थं
गोविंदं आदिपुरुषं तमहं भजामि
यद्-भाव-भावित-धियो मनुजास्तथैव
संप्राप्य रूप-महिमासन-यान-भूषाः
सूक्तैःयमेव नियम प्रथितैःस्तुवंति
गोविंदं आदिपुरुषं तमहं भजामि
आनंद-चिन्मय-रस-प्रतिभाविताभिः
ताभिर्य एव निजरूपतया कलाभिः
गोलोक एव निवसति अखिलात्मभूतो
गोविंदं आदिपुरुषं तमहं भजामि
प्रेमांजन-च्छुरित-भक्ति-विलोचनेन
संतः सदैव हृदयेषु विलोकयंति
यं श्यामसुंदरं अचिंत्य-गुण-स्वरूपं
गोविंदं आदिपुरुषं तमहं भजामि
रामादि मूर्तिषु कल-नियमेन तिष्ठुन्
नानावतारं अकरोद्भुवनेषु किंतु
कृष्णः स्वयं समभवत् परमः पुमान् यो
गोविंदं आदिपुरुषं तमहं भजामि
यस्य प्रभा प्रभवतो जागदंड कोटि
कोटिष्वशेष वसुधादि विभूति-भिन्नं
तद्ब्रह्म निष्कलं अनंतं अशेष भूतं
गोविंदं आदिपुरुषं तमहं भजामि
माया हि यस्य जगदंड शतानि सूते
त्रैगुण्य-तद्-विषय-वेद-वितायमाना
सत्त्वावलंबि परसत्त्वं विशुद्धसत्त्वं
गोविंदं आदिपुरुषं तमहं भजामि
आनंद-चिन्मय रसात्मतया मनःसु
यः प्राणिनां प्रतिफलन् स्मरतां उपेत्य
लीलायितेन भुवनानि जयत्यजस्रं
गोविंदं आदिपुरुषं तमहं भजामि
गोलोक नाम्नि निज-धाम्नि तले च तस्य
देवी-महेश-हरि-धामनु तेषु तेषु
ते ते प्रभाव निचया विहिताश्च येन
गोविंदं आदिपुरुषं तमहं भजामि
सृष्टि-स्थिति-प्रलय-साधन-शक्तिरेका
छायेव यस्य भुवनानि बिभर्ति दुर्गा
इच्छनुरूपं अपि यस्य च चेष्टते सा
गोविंदं आदिपुरुषं तमहं भजामि
क्षीरं यथा दधि विकार-विशेष योगात्
संजायते न हि ततः पृथगस्ति हेतोः
यः शंभुतामपि तथा समुपैति कार्याद्
गोविंदं आदिपुरुषं तमहं भजामि
दीपार्चिरेव हि दशांतरं अभ्युपेत्य
दीपायते विवृत-हेतु-समान-धर्म
यस्तादृगेव हि च विष्णुतया विभाति
गोविंदं आदिपुरुषं तमहं भजामि
यः कारणार्णव जले भजतिस्म योग-
निद्रां अनंत-जगद्-अंड-स-रोम कूपः
आधार-शक्तिं अवलंब्य परां स्व-मूर्तिं
गोविंदं आदिपुरुषं तमहं भजामि
यस्यैक-निश्वसितकालमथावलंब्य
जीवंति लोम-विलजा जगदंडनाथाः
विष्णुर् महान् स इह यस्य कला-विशेषो
गोविंदं आदिपुरुषं तमहं भजामि
भास्वान् यथाश्म-शकलेषु निजेषु तेजः
स्वीयं कियत् प्रकटयत्यपि तद्वदत्र
ब्रह्माय एष जगदंड-विधान-कर्ता
गोविंदं आदिपुरुषं तमहं भजामि
यत्-पाद-पल्लव-युगं विनिधाय कुंभ
द्वंद्वे प्रणाम-समये स गणाधिराजः
विघ्नान् विहंतं आलं अस्य जगत्-त्रयस्य
गोविंदं आदिपुरुषं तमहं भजामि
अग्निर् मही गगनं अंबु मरुद् दिशश्च
कालस्तथात्म मनसीति जगत्-त्रमाणि
यस्माद् भवंति विभवंति विशंति यं च
गोविंदं आदिपुरुषं तमहं भजामि
यच्छक्षुरेष सविता सकल-ग्रहाणां
राजा समस्त सुरमूर्तिरशेष तेजाः
यस्याज्ञया भ्रमति संभृत-काल-चक्रो
गोविंदं आदिपुरुषं तमहं भजामि
धर्मो थ पाप नीचयः श्रुतयस्त पांसि
ब्रह्मादि-कीट-पतगावधयश्च जीवः
यद्धत्त-मात्र-विभव-प्रकट-प्रभावा
गोविंदं आदिपुरुषं तमहं भजामि
यस्त्विंद्रगोपं अथवॆंद्रं अहो स्वकर्म
बंधानुरूप-फल-भाजनम् आतनोति
कर्माणि निर्दहति किंतु च भक्तिभाजां
गोविंदं आदिपुरुषं तमहं भजामि
यं क्रोध-काम-सहज-प्रणयादि भीति-
वात्सल्य-मोह-गुरु-गौरव-सेव्य-भावैः
संचिंत्य तस्य सदृशीं तनुमापुरेते
गोविंदं आदिपुरुषं तमहं भजामि
श्रियः कांताः कांतः परम-पुरुषः कल्पतरवो
द्रुमा भूमिश्चिंतामणि-गण-मयी तोयं अमृतं
कथा गानं नाट्यं गमनं अपि वंशी प्रिय-सखी
चिदानंदं ज्योतिः परं अपि तदास्वाद्यमपि च
स यत्र क्षीराब्धिः स्रवति सुरभिभ्यश्च सु महान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः
भजे श्वेतद्वीपं तं अहं इह गोलोकं इति यं
विदंतस्ते संतः क्षिति-विरल-चाराः कतिपये
govindam adi-purusham tam aham bhajami translate,
govindam adi purusham tam aham bhajami sanskrit,
govindam adi purusham tam aham bhajami iskcon,
govindam adi purusham tam aham bhajami lyrics,
govindam adi purusham tam aham bhajami,
govindam adi purusham tam aham bhajami song
Ещё видео!