Kanda_5_SK-000-Dhyana_sloka
Artist: V Sriram Ghana Paati & Others
Sundara Kandam Text - Matches with Gita Press, Gorakhpur
Lyrics in Sanskrit
श्रीविघ्नेश्वर ध्यानम्
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् | प्रसन्नवदनं ध्यायेत् सर्वविघनोपशान्तये ||
वागीशाद्या: सुमनस: सर्वार्थानामुपक्रमे | यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ||
श्रीसरस्वती प्रार्थना
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीम अक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण |
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानासमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ||
श्रीवाल्मीकि स्तुति:
कूजन्तं राम रामेति मधुरं मधुराक्षरम् | आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ||
वाल्मीकेर्मुनिसिंहस्य कवितावनचारीण: | शृण्वन् रामकथानादं को न याति परं गतिम् ||
यः पिबन् सततं रामचरितामृतसागरम् | अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम् ||
श्रीहनुमत् स्तुति:
गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् | रामायणमहामालारत्नं वन्देऽनिलात्मजम् ||
अञ्जनानन्दनं वीरं जानकीशोकनाशनम् | कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ||
उल्लङघय सिन्धो: सलिलं सलीलं य: शोकवन्हिं जनकात्मजाया: |
आदाय तेनैव ददाह लङ्कां नमामि तं प्रान्जलिराञ्जनेयम् ||
आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् |
पारिजाततरुमूलवासिनं भावयामि पवमान नन्दनम् ||
यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् |
बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ||
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् |
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ||
श्रीरामायण स्तुति:
य: कर्णाञ्जलिसम्पुटैरहरह: सम्यक् पिबत्यादराद्
वाल्मीकेर्वदनारविन्दगलितं रामयणाख्यं मधु |
जन्मव्याधिजराविपत्तिनिधनै: अत्यन्तसोपद्रवं
संसारं स विहाय गच्छति पुमान् विष्णो: पदं शाश्वतम् ||
तदुपगत समास सन्धियोगं सममधुरोपनतार्थवाक्यबद्धम् |
रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ||
वाल्मीकिगिरिसम्भूता रामसागरगामिनी | पुनातु भुवनं पुण्या रामायणमहानदी ||
श्लोकसारसमाकीर्णं सर्गकल्लोलसंकुलम् | काण्डग्राहमहामीनं वन्दे रामायणार्णवम् ||
वेदवेद्ये परे पुंसि जाते दशरथात्मजे | वेद: प्राचेतसादासीत् साक्षाद्रामायणात्मना ||
श्रीराम ध्यानम्
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम् |
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्य: परं
व्याख्यान्तं भरतादिभि: परिवृतं रामं भजे श्यामलम् ||
वामे भूमिसुता पुरश्च हनुमान् पश्चात् सुमित्रासुत:
शत्रुघ्नो भरतश्च पार्श्वदलyor vaय्वादिकोणेषु च |सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान्
मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ||
नमोस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै ।
नमोस्तु रुद्रेन्द्रयमानिलेभ्यः नमोस्तु चन्द्रार्क मरुद्गणेभ्यः ॥
बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगता । अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणाद्भवेत् ॥
दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः । दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥
धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि। पौरुषे चाप्रतिद्वन्द्वश्शरैनं जहि रावणिम्॥
सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम ॥
Ещё видео!