Sakalarhat Stotra with Raaga and Lyrics | Jain Stotra | Mansi Doshi | IRIS - The Sound Studio
For enquiries please contact +919311458968
managed by @IRIS RECORDS
Special Thanks to Jayana Jignesh Shah(Guru)
Also Watch :
CHAUKASAAY | चउक्कसाय | Jain Sutra | Mansi Doshi
[ Ссылка ]
Shree Bhaktamar Stotra with Raaga and Lyrics | Mansi Doshi | श्री भक्तामर स्तोत्र | Jain Stotra |
[ Ссылка ]
Shri Ajit Shanti Jain Stotra with Raaga and Lyrics | Mansi Doshi | 40 Raagas
[ Ссылка ]
Santikaram Sutra with Raag and Lyrics | Jain Stotra | Mansi Doshi |
[ Ссылка ]
सकलार्हत्-प्रतिष्ठान-मधिष्ठानं शिवश्रियः.
भूर्भुवः-स्वस्त्रयीशान-मार्हन्त्यं प्रणिदध्महे..1.
नामाकृति-द्रव्य-भावैः, पुनतस्त्रि-जगज्जनम्.
क्षेत्रे काले च सर्वस्मि-न्नर्हतः समुपास्महे..2.
आदिमं पृथिवीनाथ-मादिमं निष्परिग्रहम्.
आदिमं तीर्थनाथं च, ऋषभ-स्वामिनं स्तुमः..3.
अर्हन्त-मजितं विश्व-कमलाकर-भास्करम्.
अम्लान-केवलादर्श-संक्रान्त-जगतं स्तुवे..4.
विश्व भव्य-जनाराम-कुल्या-तुल्या जयन्ति ताः.
देशना-समये वाचः, श्रीसंभव-जगत्पतेः..5.
अनेकान्त-मताम्भोधि-समुल्लासन-चन्द्रमाः.
दद्यादमन्द-मानन्दं, भगवा-नभिनन्दनः..6.
द्युसत्किरीट-शाणाग्रो-त्तेजिताङ्घ्रि-नखावलिः.
भगवान् सुमतिस्वामी, तनोत्व-भिमतानि वः..7.
पद्मप्रभ-प्रभोर्देह-भासः पुष्णन्तु वः श्रियम्.
अन्तरङ्गारि-मथने, कोपाटोपादि-वारुणाः..8.
श्रीसुपार्श्व-जिनेन्द्राय, महेन्द्र-महिताङ्घ्रये.
नमश्चतुर्वर्ण-सङ्घ-गगनाभोग-भास्वते..9.
चन्द्रप्रभ-प्रभोश्चन्द्र-मरीचि-निचयोज्ज्वला.
मूर्तिर्मूर्त्त-सितध्यान-निर्मितेव श्रियेस्तु वः..10.
करामलकवद्विश्वं, कलयन् केवल-श्रिया.
अचिन्त्य-माहात्म्य-निधिः, सुविधिर्बोधयेस्तु वः..11.
सत्त्वानां परमानंद-कन्दोद्भेद-नवाम्बुदः.
स्याद्वादामृत-निःस्यन्दी, शीतलः पातु वो जिनः..12.
भव-रोगार्त्त-जन्तूना-मगदंकार-दर्शनः.
निःश्रेयस-श्रीरमणः, श्रेयांसः श्रेयसेस्तु वः..13.
विश्वोपकारकी-भूत-तीर्थकृत्कर्म-निर्मितिः.
सुरासुर-नरैः पूज्यो, वासुपूज्यः पुनातु वः..14.
विमल-स्वामिनो वाचः, कतक-क्षोद-सोदराः.
जयन्ति त्रिजगच्चेतो-जल-नैर्मल्य-हेतवः..15.
स्वयम्भू-रमण-स्पर्द्धि-करुणारस-वारिणा.
अनन्त-जिदनन्तां वः, प्रयच्छतु सुख-श्रियम्..16.
कल्पद्रुम-सधर्माण-मिष्टप्राप्तौ शरीरिणाम्.
चतुर्धा धर्म-देष्टारं, धर्मनाथ-मुपास्महे..17.
सुधासोदर-वाग्ज्योत्स्ना-निर्मलीकृत-दिङ्मुखः.
मृगलक्ष्मा तमःशान्त्यै, शान्तिनाथ-जिनोस्तु वः..18.
श्रीकुन्थुनाथो भगवान्, सनाथो-तिशयर्द्धिभिः.
सुरासुर-नृनाथाना-मेकनाथोस्तु वः श्रिये..19.
अरनाथस्तु भगवाँ-श्चतुर्थार-नभोरविः.
चतुर्थ-पुरुषार्थ-श्रीविलासं वितनोतु वः..20.
सुरासुर-नराधीश-मयूर-नव-वारिदम्.
कर्मद्रून्मूलने हस्ति-मल्लं मल्लि-मभिष्टुमः..21.
जगन्महा-मोहनिद्रा-प्रत्यूष-समयोपमम्.
मुनिसुव्रत-नाथस्य, देशना-वचनं स्तुमः..22.
लुठन्तो नमतां मूर्ध्नि, निर्मलीकार-कारणम्.
वारिप्लवा इव नमेः, पान्तु पाद-नखांशवः..23.
यदुवंश-समुद्रेन्दुः, कर्मकक्ष-हुताशनः.
अरिष्ट-नेमि-र्भगवान्, भूयाद्वो-रिष्ट-नाशनः..24.
कमठे धरणेन्द्रे च, स्वोचितं कर्म कुर्वति.
प्रभुस्तुल्य-मनोवृत्तिः, पार्श्वनाथः श्रियेस्तु वः..25.
श्रीमते वीरनाथाय, सनाथायाद्भुत-श्रिया.
महानन्द-सरोराज-मरालायार्हते नमः..26.
कृतापराधेपि जने, कृपा-मन्थर-तारयोः.
ईषद्-बाष्पार्द्रयोर्भद्रं, श्रीवीर-जिन-नेत्रयोः..27.
जयति-विजितान्य-तेजाः, सुरासुराधीश-सेवितः श्रीमान्.
विमलस्त्रास-विरहित-स्त्रिभुवन-चूडामणिर्भगवान्..28.
वीरः सर्व-सुरासुरेन्द्र-महितो, वीरं बुधाः संश्रिताः;
वीरेणाभिहतः स्वकर्म-निचयो, वीराय नित्यं नमः.
वीरात्तीर्थमिदं प्रवृत्तमतुलं, वीरस्य घोरं तपो;
वीरे श्री-धृति-कीर्ति-कान्ति-निचयः, श्री वीर! भद्रं दिश..29.
अवनितल-गतानां कृत्रिमा-कृत्रिमाणां;
वरभवन-गतानां दिव्य-वैमानिकानाम्.
इह मनुज-कृतानां, देव-राजार्चितानां;
जिनवर-भवनानां भावतोहं नमामि......30.
सर्वेषां वेधसामाद्य-मादिमं परमेष्ठिनाम्.
देवाधिदेवं सर्वज्ञं, श्रीवीरं प्रणिदध्महे.....31.
देवोनेक-भवार्जि-तोर्जित-महा-पाप-प्रदीपानलो;
देवः सिद्धि-वधू-विशाल-हृदया-लङ्कार-हारोपमः.
देवोष्टादश-दोष-सिन्धुर-घटा-निर्भेद-पञ्चाननो;
भव्यानां विदधातु वांछित-फलं श्रीवीतरागो जिनः..32.
ख्यातोष्टापद-पर्वतो गजपदः सम्मेत-शैलाभिधः;
श्रीमान् रैवतकः प्रसिद्ध-महिमा शत्रुञ्जयो मण्डपः.
वैभारः कनका-चलोर्बुद-गिरिः श्रीचित्रकूटादय-
स्तत्र श्रीऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम्..33.
![](https://i.ytimg.com/vi/K9NubEarHvM/mqdefault.jpg)