This hymn has the 15 letters (matrikas) of the panchadashaakshari devi mantra at the start of each of its 15 stanzas. So it is known as "mantra maatrika stavam"
The rendering by Sri Mallik garu has been recorded from AIR Bhakti Ranjani.
The script in devanagari is given below.
Some telugu stanzas are given here and for full stotra lyrics in telugu click on
[ Ссылка ]
श्रीराजराजेश्वरी मन्त्रमातृकास्तवः
कल्याणायुतपूर्णचन्द्रवदनां प्राणेश्वरानन्दिनीं
पूर्णां पूर्णतरां परेशमहिषीं पूर्णामृतास्वादिनीम् ।
सम्पूर्णां परमोत्तमामृतकलां विद्यावतीं भारतीं
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १॥
एकारादिसमस्तवर्णविविधाकारैकचिद्रूपिणीं
चैतन्यात्मकचक्रराजनिलयांचन्द्रान्तसञ्चारिणीम् ।
भावाभावविभाविनीं भवपरां सद्भक्तिचिन्तामणिं
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ २॥
ईहाधिक्परयोगि (ईशाधीश्वरयोगि) वृन्दविदितां स्वानन्दभूतां परां
-पश्यन्तीं तनुमध्यमां विलसिनीं श्रीवैखरीरूपिणीम् ।
आत्मानात्मविचारिणीं विवरगां विद्यां त्रिबीजात्मिकां
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ३॥
लक्ष्यालक्ष्यनिरीक्षणां निरूपमां रुद्राक्षमालाधरां
त्र्यक्षार्धाकृतिदक्षवंशकलिकां दीर्घाक्षिदीर्घस्वराम् ।
भद्रां भद्रवरप्रदां भगवतीं भद्रेश्वरीं मुद्रिणीं
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ४॥
ह्रींबीजागतनादबिन्दुभरितामोङ्कारनादात्मिकां
ब्रह्मानन्दघनोदरींगुणवतीं ज्ञानेश्वरीं ज्ञानदाम् ।
ज्ञानेच्छाकृतिनीं महीं गतवतीं गन्धर्वसंसेवितां
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ५॥
हर्षोन्मत्तसुवर्णपात्रभरितां पीनोन्नताघूर्णितां
हुंकारप्रियशब्दजालनिरतां सारस्वतोल्लासिनीम् ।
श्रीराजराजेश्वरी मन्त्रमातृकास्तवः
सारासारविचारचारुचतुरां वर्णाश्रमाकारिणीं
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ६॥
सर्वेशाङ्गविहारिणीं सकरुणां सन्नादिनीं नादिनीं
संयोगप्रियरूपिणीं प्रियवतीं प्रीतां प्रतापोन्नताम् ।
सर्वान्तर्गतिशालिनीं शिवतनूसन्दीपिनीं दीपिनीं variation (सर्वान्तरगत)
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ७॥
कर्माकर्मविवर्जितां कुलवतीं कर्मप्रदां कौलिनीं
कारुण्याम्बुधिसर्वकामनिरतां सिन्धुप्रियोल्लासिनीम् ।
पञ्चब्रह्मसनातनासनगतां गेयां सुयोगान्वितां
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ८॥
हस्त्युत्कुम्भनिभस्तनद्वितयतः पीनोन्नतादानतां
हाराद्याभरणां सुरेन्द्रविनुतां शृङ्गारपीठालयाम् ।
योन्याकारकयोनिमुद्रितकरां नित्यां नवार्णात्मिकां
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ९॥
लक्ष्मीलक्षणपूर्णभक्तवरदां लीलाविनोदस्थितां
लाक्षारञ्चितपादपद्मयुगलां ब्रह्मेन्द्रसंसेविताम् । var रञ्जित
लोकालोकितलोककामजननीं लोकाश्रयाङ्कस्थितां
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १०॥
ह्रींकाराश्रितशङ्करप्रियतनुं श्रीयोगपीठेश्वरीं
माङ्गल्यायुतपङ्कजाभनयनां माङ्गल्यसिद्धिप्रदाम् ।
तारुण्येन विशेषिताङ्गसुमहालावण्यसंशोभितां
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ११॥
सर्वज्ञानकलावतीं सकरुणां सर्वेश्वरीं सर्वगां
सत्यां सर्वमयीं सहस्रदलजां सत्त्वार्णवोपस्थिताम् ।
सङ्गासङ्गविवर्जितां सुखकरीं बालार्ककोटिप्रभां
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १२॥
कादिक्षान्तसुवर्णबिन्दुसुतनुं सर्वाङ्गसंशोभितां
नानावर्णविचित्रचित्रचरितां चातुर्यचिन्तामणिम् ।
चित्तानन्दविधायिनीं सुचपलां कूटत्रयाकारिणीं
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १३॥
श्रीराजराजेश्वरी मन्त्रमातृकास्तवः
लक्ष्मीशानविधीन्द्रचन्द्रमकुटाद्यष्टाङ्गपीठाश्रितां
सूर्येन्द्वग्निमयैकपीठनिलयां त्रिस्थां त्रिकोणेश्वरीम् ।
गोप्त्रीं गर्वनिगर्वितां गगनगां गङ्गागणेशप्रियां
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १४॥
ह्रींकूटत्रयरूपिणीं समयिनीं संसारिणीं हंसिनीं
वामाचारपरायणीं सुकुलजां बीजावतीं मुद्रिणीम् । var वामाराध्यपदाम्बुजां
कामाक्षीं करुणार्द्रचित्तसहितां श्रीं श्रीत्रिमूर्त्यम्बिकां
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १५॥
या विद्या शिवकेशवादिजननी या वै जगन्मोहिनी
याब्रह्मादिपिपीलिकान्तजगदानन्दैकसन्दायिनी ।
या पञ्चप्रणवद्विरेफनलिनी या चित्कलामालिनी
सा पायात्परदेवता भगवती श्रीराजराजेश्वरी ॥ १६॥
కల్యాణాయుతపూర్ణచన్ద్రవదనాం ప్రాణేశ్వరానన్దినీం
పూర్ణాం పూర్ణతరాం పరేశమహిషీం పూర్ణామృతాస్వాదినీమ్ ।
సమ్పూర్ణాం పరమోత్తమామృతకలాం విద్యావతీం భారతీం
శ్రీచక్రప్రియబిన్దుతర్పణపరాం శ్రీరాజరాజేశ్వరీమ్ ॥ ౧॥
ఏకారాదిసమస్తవర్ణవివిధాకారైకచిద్రూపిణీం
చైతన్యాత్మకచక్రరాజనిలయాం చన్ద్రాన్తసఞ్చారిణీమ్ ।
భావాభావవిభావినీం భవపరాం సద్భక్తిచిన్తామణిం
శ్రీచక్రప్రియబిన్దుతర్పణపరాం శ్రీరాజరాజేశ్వరీమ్ ॥ ౨॥
ఈహాధిక్పరయోగివృన్దవిదితాం స్వానన్దభూతాం పరాం var ఈశాధీశ్వరయోగి
పశ్యన్తీం తనుమధ్యమాం విలసినీం శ్రీవైఖరీరూపిణీమ్ ।
ఆత్మానాత్మవిచారిణీం వివరగాం విద్యాం త్రిబీజాత్మికాం
శ్రీచక్రప్రియబిన్దుతర్పణపరాం శ్రీరాజరాజేశ్వరీమ్ ॥ ౩॥
లక్ష్యాలక్ష్యనిరీక్షణాం నిరూపమాం రుద్రాక్షమాలాధరాం
త్ర్యక్షార్ధాకృతిదక్షవంశకలికాం దీర్ఘాక్షిదీర్ఘస్వరామ్ ।
భద్రాం భద్రవరప్రదాం భగవతీం భద్రేశ్వరీం ముద్రిణీం
శ్రీచక్రప్రియబిన్దుతర్పణపరాం శ్రీరాజరాజేశ్వరీమ్ ॥ ౪॥
హ్రీంబీజాగతనాదబిన్దుభరితామోఙ్కారనాదాత్మికాం
బ్రహ్మానన్దఘనోదరీం గుణవతీం జ్ఞానేశ్వరీం జ్ఞానదామ్ ।
జ్ఞానేచ్ఛాకృతినీం మహీం గతవతీం గన్ధర్వసంసేవితాం
శ్రీచక్రప్రియబిన్దుతర్పణపరాం శ్రీరాజరాజేశ్వరీమ్ ॥ ౫॥
హర్షోన్మత్తసువర్ణపాత్రభరితాం పీనోన్నతాఘూర్ణితాం (?)
హుంకారప్రియశబ్దజాలనిరతాం సారస్వతోల్లాసినీమ్ ।
సారాసారవిచారచారుచతురాం వర్ణాశ్రమాకారిణీం
శ్రీచక్రప్రియబిన్దుతర్పణపరాం శ్రీరాజరాజేశ్వరీమ్ ॥ ౬॥
...
Ещё видео!